महानुशासनम्

मठाम्नाय – महानुशासनम् – सेतु, Mathaamnaya – Mahanushasanam – Setu
I. मठाम्नाय:
1. 
 शारदा मठाम्नायः
प्रथमः पश्चिमाम्नायः शारदामठ उच्यते ।  कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ (शुभौ ) पदे ॥ 1॥
द्वारकाख्यं हि क्षेत्रं स्याद् देवः सिद्धेश्वरः स्मृतः ।  भद्रकाली तु देवी स्याद् आचार्यो  विश्वरूपकः ॥ 2॥
गोमतीतीर्थममलं ब्रह्मचारी स्वरूपकः ।  सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ॥ 3॥
सिन्धु-सौवीर-सौराष्ट्र-महाराष्ट्रस्तथान्तराः।देशाः पश्चिमदिक्स्था ये शारदा पीठसात्कृता:(मठभागिनः)॥ 4॥
जीवात्मपरमात्मैक्य बोधो यत्र भविष्यति । तत्त्वमसि महावाक्यं गोत्रोऽविगत उच्यते ॥ 5॥
त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्नायात्तत्त्वार्थभावेन तीर्थनाम्ना स उच्यते ॥ 6॥
आश्रमग्रहणे प्रौढ आशापाशविवर्जितः । यातायातविनिर्मुक्त एतदाश्रमलक्षणम् (एष आश्रम उच्यते) ॥ 7॥
कीटादयो विशेषेण वार्यन्ते यत्र जन्तवः । भूतानुकम्पया नित्यं कीटवारः स उच्यते ॥ 8॥
स्व-स्वरूपं विजानाति स्वधर्म-परिपालकः । स्वानन्दे क्रीडते* नित्यं स्वरूपो वटुरुच्यते ॥ 9॥